शुक्रवार, 3 फ़रवरी 2017








॥ वेदान्तदशश्लोकि ॥

ज्ञानस्वरूपञ्च हरेरधीनं शरीरसंयोगवियोगयोग्यम् ।
अणुं हि जीवं प्रतिदेहभिन्नं ज्ञातृत्ववन्तं यदनन्तमाहुः ॥ १॥

आनादिमायापरियुक्तरूपं त्वेनं विदुर्वै भगवत्प्रसादात् ।
मुक्तञ्च बद्धं किल बद्धमुक्तं प्रभेदबाहुल्यमथापि बोध्यम् ॥ २॥

अप्राकृतं प्राकृतरूपकञ्च कालस्वरूपं तदचेतनं मतम् ।
मायाप्रधानादिपदप्रवाच्यं शुक्लादिभेदाश्च समेऽपि तत्र ॥ ३॥

स्वभावतोऽपास्तसमस्तदोषमशेषकल्याणगुणैकराशिम् ।
व्युहाङ्गिनं ब्रह्म परं वरेण्यं ध्यायेम कृष्णं कमलक्षेणं हरिम् ॥ ४॥

अङ्गे तु वामे वृषभानुजां मुदा विराजमानामनुरूपसौभगाम् ।
सखिसहस्त्रैः परिसेवितां सदा स्मरेम देवीं सकलेष्टकामदाम् ॥ ५॥

उपासनीयं नितरां जनैः सदा प्रहाण्येऽज्ञानतमोऽनुवृत्तेः ।
सनन्दनाद्यैर्मुनिभिस्तथोक्तं श्रीनारदयाखिलतत्त्वसाक्षिणे ॥ ६॥

सर्वं हि विज्ञानमतो यथार्थकं श्रुतिस्मृतिभ्यो निखिलस्य वस्तुनः ।
ब्रह्मात्मकत्वादिति वेदविन्मतं त्रिरूपताऽपि श्रुतिसुत्रसाधिता ॥ ७॥

नान्या गतिः कृष्ण पदारविन्दात्सन्दृश्यते ब्रह्मशिवादिवन्दितात् ।
भक्तेच्छयोपात्तसुचिन्त्यविग्रहाचिन्त्यशक्तेरविचिन्त्यसाशयात् ॥ ८॥

कृपास्य दैन्यदियुजि प्रजायते यया भवेत्प्रेमविशेषलक्षणा ।
भक्तिर्ह्यनन्याधिपतेर्महात्मनः सा चोत्तमा साधनरूपिका परा ॥ ९॥

उपास्यरूपं तदुपासकस्य च कृपाफलं भक्तिरसस्ततः परम् ।
विरोधिनो रूपमथैतदाप्ते ज्ञेर्या इमेऽर्थाऽपि पञ्चसाधुभिः ॥ १०॥

॥ इति श्रीमत्सुदर्शनचक्रावतारभगवन्निम्बार्कप्रणीता
वेदान्तदशश्लोकी ॥

कोई टिप्पणी नहीं:

टिप्पणी पोस्ट करें

जब आपके विचार जानने के लिए टिपण्णी बॉक्स रखा है, तो मैं कौन होता हूँ आपको रोकने और आपके लिखे को मिटाने वाला !!!!! ................ खूब जी भर कर पोस्टों से सहमती,असहमति टिपियायिये :)